Sanskrit, Atha Yoganu-Shasanam, 6303

Sanskrit, Atha Yoganu-Shasanam, 6303

Hindustani, Sitar, Reed Organ, Tabla

00:00 / 00:00

Your friends are using AiMusic.la to generate music, listen to it! You can also generate your own music!

Lyrics

चित्तवृत्तिनिरोधो हि, ज्ञातं योगानुसाधनम्, स्वरूपसमवस्थानम्, अथ योगानुशासनम्, 1 निर्ममता च निष्कामो, निग्रहश्च तटस्थता, क्लेशो न क्लिष्टकार्येषु, न प्रीतिः प्रियकर्मसु, इति योगस्य पालनम्, मतं योगानुशासनम्. 2 समं सुखञ्च दुःखञ्च, लाभालाभौ जयाजयौ, समत्वं शत्रुमित्रेषु, तथा मानापमानयोः, इति योगस्य लक्षणम्, मतं योगानुशासनम्. 3 प्रीतिदयाक्षमायुक्तः, क्रोधलोभविवर्जितः, यस्मान्नोद्विजते कोपि, किञ्चिन्नोद्विजते च यम्, इति योगस्य धारणम्, मतं योगानुशासनम्. 4 निस्स्पृहो निर्ममो युक्तो, निर्विषादो निरामयः, विहीनः कर्तृभावेन, निष्ठो भक्तो विना रजः, इति योगस्य साधनम्, मतं योगानुशासनम्. 5 निर्मलो निरहङ्कारः, शोकदोषविवर्जितः, आत्मयुक्तो घृणामुक्तः, स्थिरमतिर्मनोबलः, इति योगस्य चालनम्, मतं योगानुशासनम्. 6 अनिकेतो ब्रह्मचारी, निरासक्तो निरङ्कुशः, संयतात्मा मिताहारी, निर्दुःखः शान्तमानसः, इति योगस्य वाहनम्, मतं योगानुशासनम्.