Sanskrit, Vande Ganeshvaram, 6293

Sanskrit, Vande Ganeshvaram, 6293

Hindustani, Sitar, Reed Organ, Tabla

00:00 / 00:00

Your friends are using AiMusic.la to generate music, listen to it! You can also generate your own music!

Lyrics

शतवारमहं वन्दे लम्बतुण्डिं गणेश्वरम्. एकदन्तं च हेरम्बं चारुकर्णं गजाननम्. 1 गं गं गं गं गणेशं श्रीं चतुर्बाहुं महोदरम्. विश्वमूर्तिं महाबुद्धिं वरेण्यं गिरिजासुतम्. 2. गणपतिं परब्रह्म शूर्पकर्णं करीमुखम्. पशुपतिमुमापुत्रं लम्बोदरं गणाधिपम्. 3. हस्तिमुखं महाकायं ढुण्ढिं सिद्धिविनायकम्. वक्रतुण्डं चिदानन्दम्आम्बिकेयं द्विमातृजम्. 4 .महाहनुं विरूपाक्षं ह्रस्वनेत्रं शशिप्रभम्. पीताम्बरं शिवानन्दं देवदेवं शुभाननम्. 5 सर्वमङ्गलमाङ्गल्यं प्रभुं मूषकवाहनम्. ऋद्धिसिद्धिप्रदातारं विघ्नहरं विनायकम्. 6 .जगदीशं शिवापुत्रम् आदिनाथं क्षमाकरम्. अनन्तं निर्गुणं वन्द्यं यशस्करं परात्परम्. 7 गौरीपुत्रं गणाधीशं गजवक्त्रं कृपाकरम्. भालचन्द्रं शिवानन्दं पार्वतीनन्दनं भजे. 8 आदिपूज्यं शुभारम्भं ज्ञानेशं मोदकप्रियम्. प्रातः सायमहं वन्दे गणेशं च सरस्वतीम्. 9 प्राप्तुं ज्ञानं युवाभ्याञ्च विद्यां भाग्यं शुभान्वरान्. नमस्कृत्य कृताञ्जलिः रत्नाकरो भजाम्यहम्