Sanskrit, Krishna Sakhe 6253
Hindustani, Reed Organ, Tabla
00:00 / 00:00
Lyrics
ब्रह्मा त्वमेव, विष्णुस्त्वमेव, शम्भुस्त्वमेव, कृष्ण सखे!
सर्गस्त्वमेव, स्वर्गस्त्वमेव, सर्वं त्वमेव, कृष्ण हरे!
1
ब्रह्मस्वरूपम्, अव्यक्तरूपम्, अचिन्तनीयं, क्लिष्टतरम्.
कथनातीतं, स्मरणातीतं, सुगमं सुलभं कृष्ण न ते.
2
विष्णुस्वरूपं, मानवरूपं, दृष्टिगोचरं, हर्षकरम्.
लोचनकमलं, निर्मलविमलं, सर्वसुन्दरं, लक्ष्मीपते.
3
देवकीनन्दं, नन्दनन्दनं, राधारमणं, करुणपरम्.
तिलकचन्दनं, जगद्वन्दनम्, भज गोविन्दं, हरे हरे.