Sanskrit, Sanskrit Vani Ashtakam, 6233
Hindustani, Reed Organ, Tabla
00:00 / 00:00
Lyrics
भाषा सुमधुरा दिव्या, रम्या गीर्वाणभारती,
सर्वोत्तमा च श्रेष्ठा च, देववाणी च या मता.
2
देशवैदेशिकानां च भाषाणां जननी शुभा,
दोषविकारशून्या सा व्याकरणसुमंडिता.
3
गिरा समाधिमास्थाय साक्षात्कृता महर्षिभिः,
आशासिता गणेशेन गीर्देव्या विश्वकर्मणा.
4
ज्ञानविज्ञानसंयुक्ता छंदस्सङ्गीतसंयुता,
गेया ज्ञेया च स्मर्तव्या, वन्द्या हृद्या मनोरमा.
5
न कठिना न क्लिष्टा च ना न्यूना नानियंत्रिता,
सुरसा च सुबोधा च ललिता सरला तथा.
6
अमृता मञ्जुला पुण्या मनोज्ञा विश्ववन्दिता,
गीता वेदेषु शास्त्रेषु रामायणे च भारते.
7
विरचिता गणेशेन सरस्वत्या च निर्मिता,
वाल्मीकिना च व्यासेन, कालिदासेन गुम्फिता.
8
संगीतगीतपद्यैश्च चरित्रं रामकृष्णयोः,
छन्दोरागेषु वृत्तेषु रत्नाकरेण प्रस्तुतम्.