Sanskrit, This is Yoga, Sanskrit 6321
Hindustani, Sitar, Reed Organ, Tabla
00:00 / 00:00
Lyrics
विद्धि त्वम्, एवं खलु योगम्, त्वम् जा निहि यो गम् ।

1
निर्मलतनुषा, निश्चलमनसा ।
विग्रहनिग्रहणम्, त्वम् जानीहि योगम्।
विद्धि त्वम्, एवं खलु योगम्, त्वम् जा निहि यो गम् ।
2
निर्भयभवनं, निश्चयकरणम् ।
सुखबन्धनत्यजनम्, त्वम् जानीहि योगम्।
विद्धि त्वम्, एवं खलु योगम्, त्वम् जा निहि यो गम् ।
3
प्रशान्तस्थानं, नितान्तध्यानम् ।
सज्जनसंयोगम्, त्वम् जानीहि योगम्।
विद्धि त्वम्, एवं खलु योगम्, त्वम् जा निहि यो गम् ।
4
परजनभजनं, यद्वत् स्वजनम् ।
जनगणपरिचरणम्, त्वम् जानीहि योगम्।
विद्धि त्वम्, एवं खलु योगम्, त्वम् जा निहि यो गम् ।
5
न विषयग्रहणं, धनसंग्रहणम् ।
न क्रोधरागमदम्, त्वम् जानीहि योगम्।