Sanskrit, Vande Bharat Mataram, 6241

Sanskrit, Vande Bharat Mataram, 6241

Hindustani, Reed Organ, Tabla

00:00 / 00:00

Your friends are using AiMusic.la to generate music, listen to it! You can also generate your own music!

Lyrics

वामे च दक्षिणे यस्या, रत्नाकरोस्ति पादयोः, हिमाद्रिर्मुकुटो शुभ्रो, वन्दे भारतमातरम्. वन्दे भारतमातरम्, वन्दे मातरम् 1 राधा सीता सुकन्यासु कालीन्दिर्जाह्नवी तथा, नर्मदा ब्रह्मपुत्रा च, वन्दे भारतमातरम्. वन्दे भारतमातरम्, वन्दे मातरम् 2 रामकृष्णौ सुपुत्रेषु भीमार्जुनौ च मारुतिः, वाल्मीकिः पाणिनिर्व्यासो, वन्दे भारतमातरम्. वन्दे भारतमातरम्, वन्दे मातरम् 3 परस्त्री मातृवद्यत्र परकन्या स्वकन्यका, आत्मवच्च परा जामिः, वन्दे भारतमातरम्. वन्दे भारतमातरम्, वन्दे मातरम् 4 यत्र पत्नी महालक्ष्मी पतिश्च परमेश्वरः, सुता रत्नं सुतः सिंहः, वन्दे भारतमातरम्. वन्दे भारतमातरम्, वन्दे मातरम्. 5 वाङ्मये वेदवेदांगे रामायणं च भारतम्, पञ्चतन्त्रं निघण्टुश्च, वन्दे भारतमातरम्. वन्दे भारतमातरम्, वन्दे मातरम्, 6 भूमिः स्वर्णमया यत्र जलममृतवत्तथा, वायौ च सौरभं यस्याः, वन्दे भारतमातरम्. वन्दे भारतमातरम्, वन्दे मातरम् 7 कर्मभूमिं, धर्मभूमिं, रणभूमिं, तपोधराम्, पुण्यभूमिं, मातृभूमिं, वन्दे भारतमातरम्. वन्दे भारतमातरम्, वन्दे मातरम् वन्दे भारतमातरम्, वन्दे मातरम्