Sanskrit, Vande Bharat Mataram, 6243
Hindustani, Reed Organ, Tabla
00:00 / 00:00
Lyrics
वामे च दक्षिणे यस्या, रत्नाकरोस्ति पादयोः,
हिमाद्रिर्मुकुटो शुभ्रो, वन्दे भारतमातरम्.
वन्दे भारतमातरम्, वन्दे मातरम्
1
राधा सीता सुकन्यासु कालीन्दिर्जाह्नवी तथा,
नर्मदा ब्रह्मपुत्रा च, वन्दे भारतमातरम्.
वन्दे भारतमातरम्, वन्दे मातरम्
2
रामकृष्णौ सुपुत्रेषु भीमार्जुनौ च मारुतिः,
वाल्मीकिः पाणिनिर्व्यासो, वन्दे भारतमातरम्.
वन्दे भारतमातरम्, वन्दे मातरम्
3
परस्त्री मातृवद्यत्र परकन्या स्वकन्यका,
आत्मवच्च परा जामिः, वन्दे भारतमातरम्.
वन्दे भारतमातरम्, वन्दे मातरम्
4
यत्र पत्नी महालक्ष्मी पतिश्च परमेश्वरः,
सुता रत्नं सुतः सिंहः, वन्दे भारतमातरम्.
वन्दे भारतमातरम्, वन्दे मातरम्.
5
वाङ्मये वेदवेदांगे रामायणं च भारतम्,
पञ्चतन्त्रं निघण्टुश्च, वन्दे भारतमातरम्.
वन्दे भारतमातरम्, वन्दे मातरम्,
6
भूमिः स्वर्णमया यत्र जलममृतवत्तथा,
वायौ च सौरभं यस्याः, वन्दे भारतमातरम्.
वन्दे भारतमातरम्, वन्दे मातरम्
7
कर्मभूमिं, धर्मभूमिं, रणभूमिं, तपोधराम्,
पुण्यभूमिं, मातृभूमिं, वन्दे भारतमातरम्.
वन्दे भारतमातरम्, वन्दे मातरम्
वन्दे भारतमातरम्, वन्दे मातरम्