Sanskrit, Surya Nava-Graha, 6281

Sanskrit, Surya Nava-Graha, 6281

Hindustani, Sitar, Reed Organ, Tabla

00:00 / 00:00

Your friends are using AiMusic.la to generate music, listen to it! You can also generate your own music!

Lyrics

नमामि भास्करं चन्द्रं मङ्गलं च बुधं गुरुम्. शुक्रं शनिं च राहुं च केतुयुक्तान्नवग्रहान्. 1 आदित्यं भास्वरं भानुं रविं सूर्यं प्रभाकरम्. अरुणं मिहिरं मित्रं पूर्णभक्त्या नमाम्यहम्. नमामि भास्करं चन्द्रं मङ्गलं च बुधं गुरुम्. शुक्रं शनिं च राहुं च केतुयुक्तान्नवग्रहान्. 2 तमोरिं तारकानाथं पापघ्नं रात्रिभूषणम्. इन्दुं चन्द्रं विधुं सोमं दण्डवत्प्रणमाम्यहम्. नमामि भास्करं चन्द्रं मङ्गलं च बुधं गुरुम्. शुक्रं शनिं च राहुं च केतुयुक्तान्नवग्रहान्. 3 मङ्गलाङ्गं महाकायं ग्रहराजं ग्रहाधिपम्. अङ्गारकं महाभागं साष्टाङ्गः प्रणमाम्यहम्. नमामि भास्करं चन्द्रं मङ्गलं च बुधं गुरुम्. शुक्रं शनिं च राहुं च केतुयुक्तान्नवग्रहान्. 4 बुद्धिमतां बुधं श्रेष्ठं नक्षत्रेशं मनोहरम्. बुद्धिदं पुण्डरीकाक्षं कृताञ्जलिर्नमाम्यहम्. नमामि भास्करं चन्द्रं मङ्गलं च बुधं गुरुम्. शुक्रं शनिं च राहुं च केतुयुक्तान्नवग्रहान्. 5 सौम्यमूर्तिं ग्रहाधीशं पीताम्बरं बृहस्पतिम्. तारापतिं सुराचार्यं प्रणिपातो नमाम्यहम्. नमामि भास्करं चन्द्रं मङ्गलं च बुधं गुरुम्. शुक्रं शनिं च राहुं च केतुयुक्तान्नवग्रहान्. 6 भार्गवं वृष्टिकर्तारं स्वभासाभासिताम्बरम्. प्रकाशं शङ्करं शुक्रं सायं प्रातो नमाम्यहम्. नमामि भास्करं चन्द्रं मङ्गलं च बुधं गुरुम्. शुक्रं शनिं च राहुं च केतुयुक्तान्नवग्रहान्. 7 विघ्नराजं यमं रौद्रं सर्वपापविनाशकम्. शनीश्वरं शिवं शुभ्रं शतशः प्रणमाम्यहम्. नमामि भास्करं चन्द्रं मङ्गलं च बुधं गुरुम्. शुक्रं शनिं च राहुं च केतुयुक्तान्नवग्रहान्. 8 विप्रचित्तिसुतं राहुं रक्ताक्षमर्धविग्रहम्. सिंहिकानन्दनं दैत्यं पुनः पुनो नमाम्यहम्. नमामि भास्करं चन्द्रं मङ्गलं च बुधं गुरुम्. शुक्रं शनिं च राहुं च केतुयुक्तान्नवग्रहान्. 9 रुद्रप्रियग्रहं कालं धूम्रकेतुं विवर्णकम्. लोककेतुं महाकेतुं मुहुर्मुहुर्नमाम्यहम्. नमामि भास्करं चन्द्रं मङ्गलं च बुधं गुरुम्. शुक्रं शनिं च राहुं च केतुयुक्तान्नवग्रहान्.