Sanskrit, Sanskrit Vani Ashtakam, 6233

Sanskrit, Sanskrit Vani Ashtakam, 6233

Hindustani, Reed Organ, Tabla

00:00 / 00:00

Your friends are using AiMusic.la to generate music, listen to it! You can also generate your own music!

Lyrics

भाषा सुमधुरा दिव्या, रम्या गीर्वाणभारती, सर्वोत्तमा च श्रेष्ठा च, देववाणी च या मता. 2 देशवैदेशिकानां च भाषाणां जननी शुभा, दोषविकारशून्या सा व्याकरणसुमंडिता. 3 गिरा समाधिमास्थाय साक्षात्कृता महर्षिभिः, आशासिता गणेशेन गीर्देव्या विश्वकर्मणा. 4 ज्ञानविज्ञानसंयुक्ता छंदस्सङ्गीतसंयुता, गेया ज्ञेया च स्मर्तव्या, वन्द्या हृद्या मनोरमा. 5 न कठिना न क्लिष्टा च ना न्यूना नानियंत्रिता, सुरसा च सुबोधा च ललिता सरला तथा. 6 अमृता मञ्जुला पुण्या मनोज्ञा विश्ववन्दिता, गीता वेदेषु शास्त्रेषु रामायणे च भारते. 7 विरचिता गणेशेन सरस्वत्या च निर्मिता, वाल्मीकिना च व्यासेन, कालिदासेन गुम्फिता. 8 संगीतगीतपद्यैश्च चरित्रं रामकृष्णयोः, छन्दोरागेषु वृत्तेषु रत्नाकरेण प्रस्तुतम्.