2

2

Indian and western mix

00:00 / 00:00

Your friends are using AiMusic.la to generate music, listen to it! You can also generate your own music!

Lyrics

अध्याय द्वितीयः श्रीदत्तात्रेय स्तोत्रम् ॐ तप्तहेमाङ्गसुन्दर अमोघलीलमोक्षदः । योगिवेषधरो दत्त जीवत्राणाय धीमही ॥ १ ॥ ॐ अनन्तगुणसम्पन्न कृपावन्त दयानिधे । अत्रिपुत्र जगन्नाथ भक्तसिद्ध्यै धीमही ॥ २ ॥ श्रीदत्तात्रेयाय नमो नमः । श्रीगोपालकृष्णाय नमो नमः ॥ देवाधिदेव परब्रह्मणे नमः । भक्तकामकल्पद्रुमाय नमः ॥३॥ निरुपमाय निभ्रान्ताय नमः । निरभिमानाय नीरुताय नमः ॥ निःसङ्गाय नित्यमुक्ताय नमः । श्रीदत्तात्रेयाय नमो नमः ॥४॥ अविक्रीयायाच्युताय नमः । अप्रतिरूपायाद्वितीयाय नमः ॥ बाह्याभ्यन्तर्यादिनाथाय नमः । त्वमेव सर्वं नमो नमः ॥५॥ लीलावतार | ऋषिवेषधारी दत्तात्रेयो | मुनिवृन्दचारी । व्यावर्तनैक | शुभकार्यकर्ता दर्शनतः | सुफलप्रदाता ॥ ६ ॥ धूपार्चनेन | सहसार्जुनेन सन्तोषितो | धरणीश्वरो यः । सेवाप्रकर्षा | त् वरदानदाता दत्तात्रेयो | सुरराजवन्द्यः ॥ ७ ॥ मादालसासू | तसुतापहारी दैवकृतं | वाक्यमिवातिभीषणम् । मायां त्यजन् | पिशितभारवाही डोलायमानो | बटुरूपधारी ॥ ८॥ रेणुकनन्दी | रणिभिरम्यः फरसाभिराम | गुरुकर्मकर्ता । अन्त्यस्थितानां | विनतीं न हन्ति स्त्रीविनती | मनसि पूरयन्तः ॥९॥ द्विधा नटोऽपि | दयया दयालुः करुण्यसिन्धु | पतितोद्धरः सः । नानाविधैः | वपुवेषरम्यैः काले चतुर्षु | युगेषु खेळे ॥ १० ॥ पाञ्चालदेशे | गौतमीतीरवासे महाकाले | प्रभुरत्र विराजे । नित्यं सुरेन्द्रैः | सह भोजनकारी आत्मार्थतीर्थे | विभुरेव देवः ॥ ११ ॥ सायं प्रवृत्ते | गतवान् स मातृपुरीं पाहुडयोगात् | विश्रमं चकार । सह्याद्रिशीर्षे | क्रीडया विराजन् सृष्ट्यन्तरेऽपि | स नित्यमेव ॥१२॥ मध्यान्हकाले | पाञ्चालक्षेत्रमध्ये नित्यं स्थिरः सन् | रवितुल्यतेजाः । मन्त्रप्रवृत्तः | प्रभुरत्र भाति दत्तो महात्मा | जगतां हिताय ॥ १३ ॥ जयजयशब्दैः | दुन्दुभीघोषनादैः दिगन्तरं | गर्जति दिव्यरीत्या । प्रसन्नदृष्ट्या | सन्तमेळे विराजन् लोकान् कृपाळुः | स सततं पिनष्टि ॥ १४ ॥ सह्याद्रिवासी | अत्रिकुमारो चतुर्युगेषु | चिरायुरेव । व्याघ्रवपुर्धर | लीळयैव सर्वस्य दुःखं | विनाशयत्यः ॥१५॥ त्रिदेवता मातृ | गृहे समेता सत्त्वपरीक्षां | कर्तुमाशु । तव प्रसादात् | क्षणमात्रे नष्टं तदीयं | विपदं बभूव ॥१६॥ देवान् निर्भीतान् | कर्तुमर्थं सह्याद्रिशैलं | समुपागतः सः । लिङ्गं धरायां | निवेश्य श्रीमान् देवलमुनें | मदमर्दयत्तु ॥१७॥ देवलेन स | विनीतभावात् निद्रां विधातुं | विनिवेदितो यः । प्रतिदिनं त | त्स्थानमेति तथेति वाक्यं | स ददौ प्रभुः ॥१८॥ आरळकं नृ | पमग्नतापैः त्रैभिर्दग्धं | दुःखितं निरीक्ष्य । दर्शनदाने | न तत्क्षणेन शान्तिं च दत्ते | स योगिनाथः ॥१९॥ तथैव मां त्वं | त्रिविधात् तपात् शान्तिं कुरुष्व | दयासमुद्र । त्वय्येव मे | पूर्णविश्वासो मां मा जहिहि | प्रणतं कृपाळो ॥२०॥ जय जय विश्वरूपं ॥ जय जय ज्ञानदीपम् । जय जय नित्यशुद्धं ॥ जय जय मुक्तिरूपम् ॥ अगोचरं निराकारं ॥ परं ब्रह्मसारम् ॥ नमामि श्रीदत्तरायं ॥ भजेऽहं कृपाळुम् ॥ २१॥ अनादिं अनन्तं ॥ अजं शाश्वतं तम् ॥ सदा साक्षिभूतं ॥ त्रिगुणातीतमेकम् ॥ निरालम्बनं शान्तं ॥ परं तत्त्वमेव ॥ नमामि श्रीदत्तरायं ॥ भजेऽहं कृपाळुम् ॥ २२ ॥ सदा भक्तरक्षं ॥ दयासिन्धुमेकम् ॥ भवाब्धौ पतन्तं ॥ जनं त्रातुमीशम् ॥ कृपामात्रदृष्ट्या ॥ हरत्येव दुःखम् ॥ नमामि श्रीदत्तरायं ॥ भजेऽहं कृपाळुम् ॥ २३ ॥ जगन्नाथ योगी ॥ महायोगवीरः ॥ विरागप्रदीपः ॥ सदानन्दपूरः ॥ विमुक्तिप्रदाता ॥ भवच्छेदनाय ॥ नमामि श्रीदत्तरायं ॥ भजेऽहं कृपाळुम् ॥२ ४ ॥ त्रितापाग्निदग्धं ॥ जनं दीनहीनम् ॥ क्षणादेव शान्तं ॥ करोत्येव नाथ ॥ करुणापयोधे ॥ प्रसन्नो भव त्वम् ॥ नमामि श्रीदत्तरायं ॥ भजेऽहं कृपाळुम् ॥२ ५ ॥ इदं स्तोत्रमेतत् ॥ पठेद् भक्तियुक्तः ॥ लभेन्मुक्तिसौख्यं ॥ भवेन्निश्चलात्मा ॥ शुभं पुण्यदं च ॥ भयध्वंसनं हि ॥ नमामि श्रीदत्तरायं ॥ भजेऽहं कृपाळुम् ॥ २६॥ इति भक्त्या स्तुवन्तः ॥ पठन्तः श्रद्धया ये ॥ लभन्ते मोक्षमन्ते ॥ भवाब्धेः पारमेव ॥ शुभा पंचकृष्णा ॥ अग्रपूजा पवित्रा ॥ करोत्यक्षयं पुण्यं ॥ नमामि श्रीदत्तरायम् ॥ २७॥ इति श्रीपरधर्मे महामोक्षैकसाधने श्रीपञ्चसरिताख्यबंसीधरतत्सुतविरचिते अग्रपूजायां परमपावनायां श्रीदत्तात्रेयस्तुतौ द्वितीयोऽध्यायः सम्पूर्णः ॥