Bharat Rashtra Geet, Sanskrit 6353f
Hindustani, Sitar, Reed Organ, Tabla
00:00 / 00:00
Lyrics
वामे च दक्षिणे यस्या रत्नाकरोस्ति पादयोः,
हिमाद्रिर्मुकुटो शुभ्रो, वन्दे भारतमातरम्.
भारतं कर्मभूमिरस्माकं, भारतं स्वर्गभूमिरस्माकम्.
1
अस्ति राष्ट्रं समृद्धं सुवर्णं, यस्य तुङ्गो हिमाद्रिः किरीटम्,
पीयूषं हि नदीषु च नीरम्, पावनं पादयोः सिन्धुतोयम्.
2
देवभूमिः शुचिरीश्वरस्य, दिव्यशांन्तेर्निधानं नरस्य,
वसुधैव कुटुंबं पवित्रम्, विश्वे अर्पयति पुण्यं निधानम्.
3
रविरश्मिः प्रभा यस्य उक्ता, कुण्डले तारका यस्य मुक्ता,
दर्शनम् अस्य देशस्य रम्यम्, वर्णनं सुन्दरं ज्ञानगम्यम्.
4
यत्र सिंहा हरिणा अटन्ति, शुकाः पिका मयूरा रटन्ति,
सर्वभूतेषु प्रीतिश्च सख्यम्, प्रकृतेः रक्षणं कर्म मुख्यम्.
5
परनारी मता यत्र माता, परपुमान् तथा स्वस्य भ्राता,
यत्र शांतिरहिंसा नरत्वम्, अनुकम्पा सदाचारतत्त्वम्.
6
यस्य पुत्राश्च कन्याश्च वीराः, ज्ञानक्षेत्रे रणे ये च धीराः,
वेदवाक्यं मतं यत्र मन्त्रम्, वाङ्मये भारतं पञ्चतन्त्रम्.
भारतं कर्मभूमिरस्माकं, भारतं स्वर्गभूमिरस्माकम्.
नमो नमो नमो मातृभूमे, नमो नमो नमो दातृभूमे.
नमो नमो नमः स्वर्गभूमे, नमो नमो नमः स्वर्णभूमे.
नमो नमो नमः पुण्यभूमे, नमो नमो नमः पूज्यभूमे.